|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.101. अध्यायः 101
Mahabharata - Karna Parva - Chapter Topics
कर्णवधानन्तरमर्जुनेन युधिष्ठिराभिवादनम्॥ 1 ॥ तेन कृष्णार्जुनप्रशंसनम्॥ 2 ॥ कृष्णयुधिष्ठिरसंवादः॥ 3 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-101-0x(5075)(60048)
हते वैकर्तने कर्णे कुरवो भयपीडिताः।
वीक्षमाणा दिशः सर्वाः पलायन्त सहस्रशः॥ 8-101-1(60049)
रावणं निहतं दृष्ट्वा राक्षसा राघवेण वा।
दिशो भीता द्रवन्नेव तावका भयपीडिताः॥ 8-101-2(60050)
ततो महारवं चक्रुर्योधा राजन्समन्ततः।
वार्यमाणा भृशोद्विग्नास्तव पुत्रेण भारत॥ 8-101-3(60051)
तेषां तु मतमाज्ञाय पुत्रस्ते भरतर्षभ।
अवहारं ततश्चक्रे शल्यस्यानुमतेन च॥ 8-101-4(60052)
कृतवर्मा रणे तूर्णं वृतो भारत तावकैः।
नारायणावशिष्टैश्च शिबिरायैव दुद्रुवे॥ 8-101-5(60053)
अश्वत्थामा ततः शूरो विनिश्वस्य मुहुर्मुहुः।
पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे॥ 8-101-6(60054)
कृपः शारद्वतो राजन्नागानीकेन भारत।
महता मेघकल्पेन शिबिरायैव दुद्रुवे॥ 8-101-7(60055)
गान्धाराणां सहस्रेण शकुनिः परिवारितः।
सुशर्मा च ययौ राजन्वीक्षमाणो भयार्दितः॥ 8-101-8(60056)
दुर्योधनोऽपि स ययौ ह्वतसर्वस्व आतुरः।
ज्ञातिशोकसमापन्नश्चिन्तयित्वा मुहुर्मुहुः॥ 8-101-9(60057)
छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः।
प्रययौ शिबिरायैव वीक्षमाणो दिशो दश॥ 8-101-10(60058)
ततोऽपरे सुबहुशो भारतानां महारथाः।
व्यद्रवन्त दिशो भीता भयविह्वलचेतसः॥ 8-101-11(60059)
अश्रूपूर्णा भयोद्विग्ना वेपमाना भयातुराः।
कुरवः प्राद्रवन्सर्वे दृष्ट्वा कर्णं निपातितम्॥ 8-101-12(60060)
प्रशंसन्तोऽर्जुनं केचित्केचित्कर्णं महारथाः।
प्राद्रवन्त रणे भीताः कुरवः कुरुसत्तम॥ 8-101-13(60061)
तेषां योधसहस्राणां तावकानां महामृधे।
नासीत्तत्र पुमान्कश्चिद्यस्तु युद्धे मनो दधे॥ 8-101-14(60062)
कर्णे हते महाराज निराशाः कुरवोऽभवन्।
जीवनेषु च राज्येषु दारेषु च धनेषु च॥ 8-101-15(60063)
तान्समानीय पुत्रस्ते यत्नेन महता विभो।
निवेशाय मनो दध्रे दुःखशोकसमन्वितः॥ 8-101-16(60064)
तस्याज्ञां शिरसा दीनाः प्रतिगृह्य विशाम्पते।
विषण्णमनसो भीत्या न्यविशन्त महारथाः॥ 8-101-17(60065)
चिन्तयन्तो वधं घोरं सूतपुत्रस्य संयुगे।
अर्जुनस्य जयं युद्धे चिन्तयानाः पुनःपुनः॥ 8-101-18(60066)
पाण्डवाश्च महेष्वासा न्यविशन्त परन्तपाः।
प्रहृष्टमनसः सर्वे जित्वा शत्रुं महारथाः॥ 8-101-19(60067)
ततो युधिष्ठिरं तत्र निविष्टं वै मुदान्वितम्।
समेत्य सर्वे पाञ्चाला वर्धयन्तो यथाविधि॥ 8-101-20(60068)
अर्जुनस्तु रथात्तूर्णमवरुह्य महायशाः।
धर्मराजस्य चरणौ पीडयामास हृष्टवत्॥ 8-101-21(60069)
तमुत्थाप्य महाराज धर्मपुत्रः प्रतापवान्।
सस्वजे भरतश्रेष्ठमुपजिघ्रन्नुपस्पृशन्॥ 8-101-22(60070)
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः।
अभिवाद्य महाराजमस्वजन्त स्म फल्गुनम्॥ 8-101-23(60071)
धृष्टद्युम्नः शिखण्डी च पाण्डवानां च ये रथाः।
वर्धयन्ते स्म राजानं निहते सूतनन्दने॥ 8-101-24(60072)
ततः कृष्णो महाराज सात्यकिश्चापि सात्वतः।
वर्धयन्ते स्म राजानं निहते सूतनन्दने॥ 8-101-25(60073)
वासुदेवश्च कौन्तेयं प्रणयादिदमब्रवीत्।
अद्य राजन्हताः सर्वे धार्तराष्ट्राः सराजकाः।
हते वैकर्तने कर्णे रथानां प्रवरे रथे॥ 8-101-26(60074)
यदि लोकास्त्रयः सर्वे योधयेयुः सवासवाः।
तथापि दुर्जयः सूतस्तव कोपात्तु सूदितः॥ 8-101-27(60075)
एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम्॥ 8-101-28(60076)
तव प्रसादाद्ग्रोविन्द हतः कर्णो महायशाः।
पाण्डवाश्च जयं प्राप्या नाशिताश्चापि शत्रवः॥ 8-101-29(60077)
त्वं हि शक्तो भयात्त्रातुं यस्य कस्यचिदाहवे।
त्वमस्य जगतो गोप्ता पाण्डवानां च सर्वदा॥ 8-101-30(60078)
त्वां समासाद्य शक्रोऽपि मोदते दिवि नित्यशः।
त्वं पाता पाण्डुपुत्राणां यथैव जगतस्तथा॥ 8-101-31(60079)
अनाश्चर्यो जयस्तेषां भक्तिर्येषां त्वयि प्रभो॥ 8-101-32(60080)
त्वया नाथेन गोविन्द नाथवन्तो वयं युधि।
यथेन्द्रेण पुरा देवास्त्वया चापि जनार्दन॥ 8-101-33(60081)
स्वप्स्याम्यद्य सुखं कृष्णनिद्रां लप्स्ये त्वहं क्षपाम्।
विगतं हि भयं मेऽद्य त्वत्प्रसादान्न संशयः॥ 8-101-34(60082)
एवमुक्तस्तु पार्थेन केशवः प्राह पाण्डवम्।
निमित्तमात्रं हि वयं तवाप्यस्मिन्मुदागमे॥ 8-101-35(60083)
यस्य ते भ्रातरः शूरा भीमसेनादयो नृप।
सम्बन्धिनश्चेन्द्रवीर्याः पार्षतप्रमुखास्तथा॥ 8-101-36(60084)
अर्हते च भवान्नित्यं प्रियं नित्यं च मद्वितम्।
प्रियो हि मे त्वमेतेन वचनेन नरोत्तम॥ 8-101-37(60085)
इत्युक्तो धर्मराजस्तु स्वरथं हेमभूपितम्।
दन्तवर्णैर्हयैर्युक्तं कालवालैर्महीपतिः॥ 8-101-38(60086)
आस्थाय पुरुषव्याघ्रः स्वबलेनापि संवृतः।
प्रययौ बहुवृत्तान्तं द्रष्टुमायोधनं प्रति॥ 8-101-39(60087)
सम्भाषमाणौ तौ वीर उभौ माधवपाण्डवौ॥ 8-101-40(60088)
स ददर्श रणे कर्णं शयानं पुरुषर्षभम्।
गाण्डीवमुक्तैर्विशिखैः सर्वतः सन्निपीडितम्॥ 8-101-41(60089)
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः।
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ॥ 8-101-42(60090)
अद्य राजाऽस्मि सर्वस्यां पृथिव्यां मधुसूदन।
दिष्ट्या जयसि गोविन्द दिष्ट्याशत्रुर्निपातितः॥ 8-101-43(60091)
एवं सुबहुशो राजन्प्रशशंस जनार्दनम्।
अर्जुनं च कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः॥ 8-101-44(60092)
दृष्ट्वा च निहतं कर्णं स पुत्रं पार्थसायकैः।
पुनर्जातमिवात्मानं मेने कुरुकुलोद्वहः॥ 8-101-45(60093)
समेत्य च कुरुश्रेष्ठं कुन्तीपुत्रं युधिष्ठिरम्।
वर्धयन्ति स्म राजानो हर्षयुक्ता महारथाः॥ 8-101-46(60094)
सञ्जय उवाच। 8-101-47x(5076)
एवमेष क्षयो वृत्तः सुमहान्रोमहर्षणः।
तव दुर्मन्त्रिते राजन्दिष्ट्या त्वमनुशोचसि॥ 8-101-47(60095)
वैशम्पायन उवाच। 8-101-48x(5077)
श्रुत्वैतदप्रियं राजा धृतराष्ट्रो महीपतिः।
पपात भूमौ निश्चेष्टः कौरव्यः परमासनात्।
तथा सत्यव्रता देवी गान्धारी दिव्यदर्शना॥ 8-101-48(60096)
ततस्तूर्णं तु विदुरस्तं नृपं सञ्जयस्तथा।
पर्याश्वासयतां चैतावुभावेव तु भूमिपम्॥ 8-101-49(60097)
तथैवाश्वासयामासुर्गान्धारीं कुरुयोषितः॥ 8-101-50(60098)
स दैवं परमं मेने भवितव्यं च भारत।
ताभ्यामाश्वासितो राजा तूष्णीमास्ते विशाम्पते॥ 8-101-51(60099)
एवमाख्याय राज्ञे च सञ्जयो राजसत्तम।
जगाम शिबिरं भूयो हते कर्णे महात्मनि॥ 8-101-52(60100)
स दृष्ट्वा निहतं शल्यं राजानं च सुयोधनम्।
शकुनिं सुबहून्राजन्सैनिकांश्च सहस्रशः॥ 8-101-53(60101)
तथैव पाण्डवीं सेनां निहतां प्रेक्ष्य सञ्जयः।
सौप्तिके द्रौणिना राजन्हतवाजिनरद्विपाम्॥ 8-101-54(60102)
स हि दृष्ट्वा हतान्सर्वान्समन्ताद्युधि सञ्जयः।
प्रयातो हास्तिनपुरं शोकार्तो भयविह्वलः॥ 8-101-55(60103)
हतेषु पुनरेतेषु प्रभूतगजवाजिषु।
योधैश्च तैर्महाराज नानादेशसमुद्भवैः॥ 8-101-56(60104)
कुरुक्षेत्रं तु तत्सर्वं शून्यमासीद्विशाम्पते।
निहतैः पाण्डवेयैश्च धार्तराष्ट्रैश्च संयुगे॥ 8-101-57(60105)
यथाहि विषयं वृत्तं धार्तराष्ट्रस्य संञ्जयः।
निवेदयति तत्सर्वं यथावृत्तं यथाविधि॥ 8-101-58(60106)
एवं महायुद्धमिदं महात्मनो
धनञ्जयस्याधिरथेश्च यः पठेत्।
स सम्यगिष्टस्य मखस्य यत्फलं
तदाप्नुयाद्यः शृणुयाच्च नित्यशः॥ 8-101-59(60107)
मखो हि विष्णुर्भगवान्सनातनो
वहन्ति यं चाप्यनिलेन्दुभानवः।
अतोऽनसूयुः शृणुयात्पठेच्च यः
स सर्वलोकांश्च जयेत्सुखी भवेत्॥ ॥ 8-101-60(60108)
इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां कर्णपर्वणि एकाधिकशततमोऽध्यायः॥ 101 ॥ ॥ कर्णपर्व समाप्तम्॥ 8 ॥
अतः परं शल्यपर्व भविष्यति।
तस्यायमाद्यः श्लोकः॥ 8-101-1(60109)
जनमेजय उवाच। 8-101-2x(5078)
एवं निपातिते कर्णे समरे सव्यसाचिना।
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज॥ 8-101-2(60110)
इदं कर्णपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी. आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1829 सन 1907.


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|